मण्डलवर्गीकरणम्

मण्डलम् ९, सूक्तम् ५, ऋक् ६

संहिता

सु॒शि॒ल्पे बृ॑ह॒ती म॒ही पव॑मानो वृषण्यति ।
नक्तो॒षासा॒ न द॑र्श॒ते ॥

पदपाठः

सु॒शि॒ल्पे इति॑ सुऽशि॒ल्पे । बृ॒ह॒ती इति॑ । म॒ही इति॑ । पव॑मानः । वृ॒ष॒ण्य॒ति॒ ।
नक्तो॒षसा॑ । न । द॒र्श॒ते इति॑ ॥

सायणभाष्यम्

शुशिल्पे सुरूपे बृहती परिवृढे मही महत्यौ न संप्रतिदर्शनीये नक्तोषासा नक्तोषसौ पवमानः सोमोवृषण्यति कामयते ॥ ६ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २५