मण्डलवर्गीकरणम्

मण्डलम् ९, सूक्तम् ५, ऋक् ७

संहिता

उ॒भा दे॒वा नृ॒चक्ष॑सा॒ होता॑रा॒ दैव्या॑ हुवे ।
पव॑मान॒ इन्द्रो॒ वृषा॑ ॥

पदपाठः

उ॒भा । दे॒वा । नृ॒ऽचक्ष॑सा । होता॑रा । दैव्या॑ । हु॒वे॒ ।
पव॑मानः । इन्द्रः॑ । वृषा॑ ॥

सायणभाष्यम्

नृचक्षसा मनुष्याणां द्रष्टारौ दैव्या दैव्यौ देवसंबन्धिनौ होतारा होतारौ उभा उभौ देवा देवौ हुवे आह्वयामि । यज्ञे पवमानः सोमः इन्द्रोदीप्तः । तथाचयास्कः –इन्द्रइरांदृणातीति वेरां ददातीति वेरांदधातीति वेरांदारयतीति वेरांधारयतीति वेन्दवेद्रवतीति वेन्दौरमतइति वेन्धेभूतानी- तिवातद्यदेनंप्राणैः समैन्धंस्तदिन्द्रस्येन्द्रत्वमितिविज्ञायतइति । वृषा कामानांवर्षिताच भवति ॥ ७ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २५