मण्डलवर्गीकरणम्

मण्डलम् ९, सूक्तम् ५, ऋक् ८

संहिता

भार॑ती॒ पव॑मानस्य॒ सर॑स्व॒तीळा॑ म॒ही ।
इ॒मं नो॑ य॒ज्ञमा ग॑मन्ति॒स्रो दे॒वीः सु॒पेश॑सः ॥

पदपाठः

भार॑ती । पव॑मानस्य । सर॑स्वती । इळा॑ । म॒ही ।
इ॒मम् । नः॒ । य॒ज्ञम् । आ । ग॒म॒न् । ति॒स्रः । दे॒वीः । सु॒ऽपेश॑सः ॥

सायणभाष्यम्

भारती भारत्याख्या सरस्वती सरस्वत्याख्याच मही महती इळाख्याच तिस्रः सुपेशसः सुरूपा देवीर्देव्योनोस्माकं पवमानस्य सोमस्य संबन्धिनं इमं यज्ञं प्रत्यागमन् आगच्छन्तु ॥ ८ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २५