मण्डलवर्गीकरणम्

मण्डलम् ९, सूक्तम् ५, ऋक् ११

संहिता

विश्वे॑ देवा॒ः स्वाहा॑कृतिं॒ पव॑मान॒स्या ग॑त ।
वा॒युर्बृह॒स्पति॒ः सूर्यो॒ऽग्निरिन्द्र॑ः स॒जोष॑सः ॥

पदपाठः

विश्वे॑ । दे॒वाः॒ । स्वाहा॑ऽकृतिम् । पव॑मानस्य । आ । ग॒त॒ ।
वा॒युः । बृह॒स्पतिः॑ । सूर्यः॑ । अ॒ग्निः । इन्द्रः॑ । स॒ऽजोष॑सः ॥

सायणभाष्यम्

हे विश्वेदेवा वायुर्बृहस्पतिश्च सूर्यश्चाग्निरिन्द्रश्च सर्वे यूयं सजोषसः सगतः सन्तः पवमानस्य सोमस्य स्वाहाकृतिं स्वाहाकरं आगत प्रत्यागच्छत ॥ ११ ॥

मन्द्रयेति नवर्चं षष्ठं सूक्तं काश्यपस्यासितस्य देवलस्यार्षं गायत्रं पवमानसोमदेवताकम् ।

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २५