मण्डलवर्गीकरणम्

मण्डलम् ९, सूक्तम् ६, ऋक् १

संहिता

म॒न्द्रया॑ सोम॒ धार॑या॒ वृषा॑ पवस्व देव॒युः ।
अव्यो॒ वारे॑ष्वस्म॒युः ॥

पदपाठः

म॒न्द्रया॑ । सो॒म॒ । धार॑या । वृषा॑ । प॒व॒स्व॒ । दे॒व॒ऽयुः ।
अव्यः॑ । वारे॑षु । अ॒स्म॒ऽयुः ॥

सायणभाष्यम्

हे सोम वृषा कामानां वर्षिता देवयुर्देवकामः अस्मयुरस्मत्कामश्च अव्यः अवेर्वारेषु वालेषु दशापवित्रे मन्द्रया मदकरया धारया पवस्व क्षर ॥ १ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २६