मण्डलवर्गीकरणम्

मण्डलम् ९, सूक्तम् ६, ऋक् ५

संहिता

यमत्य॑मिव वा॒जिनं॑ मृ॒जन्ति॒ योष॑णो॒ दश॑ ।
वने॒ क्रीळ॑न्त॒मत्य॑विम् ॥

पदपाठः

यम् । अत्य॑म्ऽइव । वा॒जिन॑म् । मृ॒जन्ति॑ । योष॑णः । दश॑ ।
वने॑ । क्रीळ॑न्तम् । अति॑ऽअविम् ॥

सायणभाष्यम्

अत्यविं दशापवित्रमतिक्रम्य वनेरण्ये क्रीलन्तं वर्तमानं यं सोमं दशसंख्याका योषणः स्त्रियः अंगुलयइत्यर्थः । तथाच निगमान्तरं-तमीमण्वीःसमर्य- आगृभ्णन्तियोषणोदशेति । वाजिनं बलिनमत्यमिव अश्वमिव मृजन्ति पवित्रयन्ति उत्तरयासहान्वयः ॥ ५ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २६