मण्डलवर्गीकरणम्

मण्डलम् ९, सूक्तम् ६, ऋक् ६

संहिता

तं गोभि॒र्वृष॑णं॒ रसं॒ मदा॑य दे॒ववी॑तये ।
सु॒तं भरा॑य॒ सं सृ॑ज ॥

पदपाठः

तम् । गोभिः॑ । वृष॑णम् । रस॑म् । मदा॑य । दे॒वऽवी॑तये ।
सु॒तम् । भरा॑य । सम् । सृ॒ज॒ ॥

सायणभाष्यम्

वृषणं कामानांवर्षितारं देववीतये देवानां पानाय सुतमभिषुतं तं रसं भराय संग्रामाय गोभिः पयोभिः संसृज संयोजय ॥ ६ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २७