मण्डलवर्गीकरणम्

मण्डलम् ९, सूक्तम् ६, ऋक् ७

संहिता

दे॒वो दे॒वाय॒ धार॒येन्द्रा॑य पवते सु॒तः ।
पयो॒ यद॑स्य पी॒पय॑त् ॥

पदपाठः

दे॒वः । दे॒वाय॑ । धार॑या । इन्द्रा॑य । प॒व॒ते॒ । सु॒तः ।
पयः॑ । यत् । अ॒स्य॒ । पी॒पय॑त् ॥

सायणभाष्यम्

देवाय द्योतमानायेन्द्राय सुतोभिषुतो देवोद्योतमानः सोमोधारया पवते । क्षरति यद्यस्मादस्यसोमस्य पयः पिपयत् इन्द्रमाप्यायितवत् तस्माद्धा- रया पवतइत्यर्थः ॥ ७ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २७