मण्डलवर्गीकरणम्

मण्डलम् ९, सूक्तम् ६, ऋक् ८

संहिता

आ॒त्मा य॒ज्ञस्य॒ रंह्या॑ सुष्वा॒णः प॑वते सु॒तः ।
प्र॒त्नं नि पा॑ति॒ काव्य॑म् ॥

पदपाठः

आ॒त्मा । य॒ज्ञस्य॑ । रंह्या॑ । सु॒स्वा॒णः । प॒व॒ते॒ । सु॒तः ।
प्र॒त्नम् । नि । पा॒ति॒ । काव्य॑म् ॥

सायणभाष्यम्

यज्ञस्यात्मा आत्मभूतः सुतोभिषुतः सोमः सुष्वाणः यजमानेभ्यः कामान् प्रेरयन् रंह्या वेगेन पवते क्षरति प्रत्नं पुरातनं काव्यमात्मनः कवित्वं च निपाति अभिरक्षति ॥ ८ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २७