मण्डलवर्गीकरणम्

मण्डलम् ९, सूक्तम् ६, ऋक् ९

संहिता

ए॒वा पु॑ना॒न इ॑न्द्र॒युर्मदं॑ मदिष्ठ वी॒तये॑ ।
गुहा॑ चिद्दधिषे॒ गिरः॑ ॥

पदपाठः

ए॒व । पु॒ना॒नः । इ॒न्द्र॒ऽयुः । मद॑म् । म॒दि॒ष्ठ॒ । वी॒तये॑ ।
गुहा॑ । चि॒त् । द॒धि॒षे॒ । गिरः॑ ॥

सायणभाष्यम्

हे मदिष्ठ अतिशयेन मदकर सोम इन्द्रयुरिन्द्रकामस्त्वं वीतये इन्द्रस्य पानाय एव एवं मदं पुनानः क्षरन् गुहा गुहायां यज्ञशालायामित्यर्थः गिरश्चित् शब्दानपि दधिषे अभिषववेलायां उपरवेषु धारयसि करोषीत्यर्थः ॥ ९ ॥

असृग्रमिति नवर्चं सप्तमं सूक्तम् । असृग्रमित्यनुक्रान्तम् । असितोदेवलोवाऋषिः । तौच कश्यपगोत्रजौ । गायत्रंछन्दः । पवमानसोमोदेवता । उक्तोविनियोगः ।

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २७