मण्डलवर्गीकरणम्

मण्डलम् ९, सूक्तम् ७, ऋक् २

संहिता

प्र धारा॒ मध्वो॑ अग्रि॒यो म॒हीर॒पो वि गा॑हते ।
ह॒विर्ह॒विष्षु॒ वन्द्य॑ः ॥

पदपाठः

प्र । धारा॑ । मध्वः॑ । अ॒ग्रि॒यः । म॒हीः । अ॒पः । वि । गा॒ह॒ते॒ ।
ह॒विः । ह॒विष्षु॑ । वन्द्यः॑ ॥

सायणभाष्यम्

हविःषु हविषांमध्ये वंद्यः स्तुत्योहविः हविरात्मकोयः सोमो महीर्महतीरपोवसतीवरीर्विगाहते तस्य मध्वः सोमस्य अग्रियो मुख्याधाराः प्रपतन्तीत्यर्थः ॥ २ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २८