मण्डलवर्गीकरणम्

मण्डलम् ९, सूक्तम् ७, ऋक् ३

संहिता

प्र यु॒जो वा॒चो अ॑ग्रि॒यो वृषाव॑ चक्रद॒द्वने॑ ।
सद्मा॒भि स॒त्यो अ॑ध्व॒रः ॥

पदपाठः

प्र । यु॒जः । वा॒चः । अ॒ग्रि॒यः । वृषा॑ । अव॑ । च॒क्र॒द॒त् । वने॑ ।
सद्म॑ । अ॒भि । स॒त्यः । अ॒ध्व॒रः ॥

सायणभाष्यम्

एतदेव दर्शयति वृषाकामानां वर्षकः सत्यः सत्यभूतः अध्वरोहिंसावर्जितः अग्रियोमुख्यः सोमः सद्म यज्ञगृहमभि प्रति वने उदके युजोयुक्ताः वाचोवाणीः प्रावचक्रदत् अवक्रंदति शब्दान् करोतीत्यर्थः ॥ ३ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २८