मण्डलवर्गीकरणम्

मण्डलम् ९, सूक्तम् ७, ऋक् ४

संहिता

परि॒ यत्काव्या॑ क॒विर्नृ॒म्णा वसा॑नो॒ अर्ष॑ति ।
स्व॑र्वा॒जी सि॑षासति ॥

पदपाठः

परि॑ । यत् । काव्या॑ । क॒विः । नृ॒म्णा । वसा॑नः । अर्ष॑ति ।
स्वः॑ । वा॒जी । सि॒सा॒स॒ति॒ ॥

सायणभाष्यम्

कविः क्रान्तकर्मा सोमो नृम्णा धनानि वसानः आच्छादयन् स्तोतॄणां काव्या काव्यानि कविकर्माणि स्तोत्राणि यद्यदा पर्यर्षति परिगच्छति तदा स्वः स्वर्गे वाजीबलवानन्नवान्वेन्द्रः सिषासति यागं प्रत्यागन्तुं स्वकीयं बलं संभक्तुमिच्छति ॥ ४ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २८