मण्डलवर्गीकरणम्

मण्डलम् ९, सूक्तम् ७, ऋक् ५

संहिता

पव॑मानो अ॒भि स्पृधो॒ विशो॒ राजे॑व सीदति ।
यदी॑मृ॒ण्वन्ति॑ वे॒धसः॑ ॥

पदपाठः

पव॑मानः । अ॒भि । स्पृधः॑ । विशः॑ । राजा॑ऽइव । सी॒द॒ति॒ ।
यत् । ई॒म् । ऋ॒ण्वन्ति॑ । वे॒धसः॑ ॥

सायणभाष्यम्

यद्यदा ईमेनं सोमं वेधसः कर्मणां कर्तारः ऋण्वन्ति प्रेरयन्ति तदा पवमानः क्षरन्नेषसोमः स्पृधः स्पर्धमानान् यागविघ्नकारिणोराक्षसान् विशः स्पर्धमानान् मनुष्यान् राजेव यथा राजा तद्वदभिसीदति नाशयितुमभिगच्छति ॥ ५ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २८