मण्डलवर्गीकरणम्

मण्डलम् ९, सूक्तम् ७, ऋक् ७

संहिता

स वा॒युमिन्द्र॑म॒श्विना॑ सा॒कं मदे॑न गच्छति ।
रणा॒ यो अ॑स्य॒ धर्म॑भिः ॥

पदपाठः

सः । वा॒युम् । इन्द्र॑म् । अ॒श्विना॑ । सा॒कम् । मदे॑न । ग॒च्छ॒ति॒ ।
रण॑ । यः । अ॒स्य॒ । धर्म॑ऽभिः ॥

सायणभाष्यम्

योयजमानोस्यसोमस्य धर्मभिः कर्मभिः क्रयणाभिपवादिभिः रण रमते सयजमानो वायुमिन्द्रंच अश्विना अश्विनौच मदेन साकं सह गच्छति प्राप्नोति ॥ ७ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २९