मण्डलवर्गीकरणम्

मण्डलम् ९, सूक्तम् ७, ऋक् ८

संहिता

आ मि॒त्रावरु॑णा॒ भगं॒ मध्व॑ः पवन्त ऊ॒र्मयः॑ ।
वि॒दा॒ना अ॑स्य॒ शक्म॑भिः ॥

पदपाठः

आ । मि॒त्रावरु॑णा । भग॑म् । मध्वः॑ । प॒व॒न्ते॒ । ऊ॒र्मयः॑ ।
वि॒दा॒नाः । अ॒स्य॒ । शक्म॑ऽभिः ॥

सायणभाष्यम्

येषां यजमानानां मध्वः सोमस्योर्मयस्तरंगाः मित्रावरुणा मित्रावरुणौ देवौ भगं भगाख्यं देवं च प्रति पवन्ते क्षरन्ति । ते यजमानाः अस्य सोमस्य इमं सोमं विदाना जानन्तः शक्मभिः सुखैः संगच्छन्तइति शेषः ॥ ८ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २९