मण्डलवर्गीकरणम्

मण्डलम् ९, सूक्तम् ८, ऋक् १

संहिता

ए॒ते सोमा॑ अ॒भि प्रि॒यमिन्द्र॑स्य॒ काम॑मक्षरन् ।
वर्ध॑न्तो अस्य वी॒र्य॑म् ॥

पदपाठः

ए॒ते । सोमाः॑ । अ॒भि । प्रि॒यम् । इन्द्र॑स्य । काम॑म् । अ॒क्ष॒र॒न् ।
वर्ध॑न्तः । अ॒स्य॒ । वी॒र्य॑म् ॥

सायणभाष्यम्

एते अभिषुता इमे सोमाः अस्येन्द्रस्य वीर्यं शक्तिं वर्धन्तो वर्धयन्त इन्द्रस्य कामं काम्यं प्रियं प्रीतिकरं रसं अभ्यक्षरन् अभिपवन्ते अभ्यवर्षन् ॥ १ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ३०