मण्डलवर्गीकरणम्

मण्डलम् ९, सूक्तम् ८, ऋक् २

संहिता

पु॒ना॒नास॑श्चमू॒षदो॒ गच्छ॑न्तो वा॒युम॒श्विना॑ ।
ते नो॑ धान्तु सु॒वीर्य॑म् ॥

पदपाठः

पु॒ना॒नासः॑ । च॒मू॒ऽसदः॑ । गच्छ॑न्तः । वा॒युम् । अ॒श्विना॑ ।
ते । नः॒ । धा॒न्तु॒ । सु॒ऽवीर्य॑म् ॥

सायणभाष्यम्

ते प्रसिद्धाः सोमाः पुनानासः पुनानाः अभिषूयमाणाः चमूषदः चमसेषु सीदन्तो वायुमश्विना अश्विनौच गच्छन्तः प्राप्नुवन्तो नोस्मभ्यं सुवीर्यं शोभनवीर्यं धान्तु धारयन्तु प्रयच्छन्त्वित्यर्थः ॥ २ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ३०