मण्डलवर्गीकरणम्

मण्डलम् ९, सूक्तम् ८, ऋक् ३

संहिता

इन्द्र॑स्य सोम॒ राध॑से पुना॒नो हार्दि॑ चोदय ।
ऋ॒तस्य॒ योनि॑मा॒सद॑म् ॥

पदपाठः

इन्द्र॑स्य । सो॒म॒ । राध॑से । पु॒ना॒नः । हार्दि॑ । चो॒द॒य॒ ।
ऋ॒तस्य॑ । योनि॑म् । आ॒ऽसद॑म् ॥

सायणभाष्यम्

हे सोम पुनानोभि षूयमाणोहार्दि अभिलषितस्त्वं इन्द्रस्य राधसे संराधनाय ऋतस्य यज्ञस्य योनिं स्थानं आसदं यथेन्द्रआसीदति तथेन्द्रं चोदय प्रेरय ॥ ३ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ३०