मण्डलवर्गीकरणम्

मण्डलम् ९, सूक्तम् ८, ऋक् ४

संहिता

मृ॒जन्ति॑ त्वा॒ दश॒ क्षिपो॑ हि॒न्वन्ति॑ स॒प्त धी॒तयः॑ ।
अनु॒ विप्रा॑ अमादिषुः ॥

पदपाठः

मृ॒जन्ति॑ । त्वा॒ । दश॑ । क्षिपः॑ । हि॒न्वन्ति॑ । स॒प्त । धी॒तयः॑ ।
अनु॑ । विप्राः॑ । अ॒मा॒दि॒षुः॒ ॥

सायणभाष्यम्

हे सोम त्वा त्वां दश दशसंख्याकाः क्षिर्पोगुलयः । विशः क्षिप इत्यंगुलिनामसुपाठात । मृजन्ति परिचरन्ति सप्त सप्तसंख्याकाः धीतयो होत्रकाश्च त्वां हिन्वन्ति स्वस्वन्यापारैः प्रीणयन्ति विप्रामेधाविनश्च त्वामन्वमादिषुः अनुमादयन्ति ॥ ४ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ३०