मण्डलवर्गीकरणम्

मण्डलम् ९, सूक्तम् ८, ऋक् ५

संहिता

दे॒वेभ्य॑स्त्वा॒ मदा॑य॒ कं सृ॑जा॒नमति॑ मे॒ष्य॑ः ।
सं गोभि॑र्वासयामसि ॥

पदपाठः

दे॒वेभ्यः॑ । त्वा॒ । मदा॑य । कम् । सृ॒जा॒नम् । अति॑ । मे॒ष्यः॑ ।
सम् । गोभिः॑ । वा॒स॒या॒म॒सि॒ ॥

सायणभाष्यम्

हे सोम मेष्यः अवेर्लोमानि कं उदकं च अतिसृजानं त्वा त्वां देवेभ्यो देवानां विभक्तिव्यत्ययः मदाय मदार्थं गोभिर्गोविकारैः पयोभिः संवास- यामसि संवासयामः ॥ ५ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ३०