मण्डलवर्गीकरणम्

मण्डलम् ९, सूक्तम् ८, ऋक् ६

संहिता

पु॒ना॒नः क॒लशे॒ष्वा वस्त्रा॑ण्यरु॒षो हरि॑ः ।
परि॒ गव्या॑न्यव्यत ॥

पदपाठः

पु॒ना॒नः । क॒लशे॑षु । आ । वस्त्रा॑णि । अ॒रु॒षः । हरिः॑ ।
परि॑ । गव्या॑नि । अ॒व्य॒त॒ ॥

सायणभाष्यम्

पुनानः पूयमानः कलशेषु कुंभेषु निषिच्यमानः अरुषः आरोचमानः हरिर्हरितवर्णः सोमोगव्यानि दध्यादीनि वस्त्राणि वासांसीव पर्यव्यत पर्याच्छादयति ॥ ६ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ३१