मण्डलवर्गीकरणम्

मण्डलम् ९, सूक्तम् ८, ऋक् ७

संहिता

म॒घोन॒ आ प॑वस्व नो ज॒हि विश्वा॒ अप॒ द्विषः॑ ।
इन्दो॒ सखा॑य॒मा वि॑श ॥

पदपाठः

म॒घोनः॑ । आ । प॒व॒स्व॒ । नः॒ । ज॒हि । विश्वाः॑ । अप॑ । द्विषः॑ ।
इन्दो॒ इति॑ । सखा॑यम् । आ । वि॒श॒ ॥

सायणभाष्यम्

हे इन्दो सोम मघोनो धनवतोनोस्मान् प्रत्यापवस्व क्षर । विश्वा विश्वान् द्विषोद्वेष्टृन् अपजहि मारयच सखायं प्रियमिन्द्रं आविश आप्नुहिच ॥ ७ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ३१