मण्डलवर्गीकरणम्

मण्डलम् ९, सूक्तम् ८, ऋक् ८

संहिता

वृ॒ष्टिं दि॒वः परि॑ स्रव द्यु॒म्नं पृ॑थि॒व्या अधि॑ ।
सहो॑ नः सोम पृ॒त्सु धा॑ः ॥

पदपाठः

वृ॒ष्टिम् । दि॒वः । परि॑ । स्र॒व॒ । द्यु॒म्नम् । पृ॒थि॒व्याः । अधि॑ ।
सहः॑ । नः॒ । सो॒म॒ । पृ॒त्ऽसु । धाः॒ ॥

सायणभाष्यम्

हे सोम त्वं दिवोद्युलोकाद्वृष्टिं वर्षं परिस्रव वर्ष । पृथिव्याअधि पृथिव्याम् । अधिः सप्तम्यर्थानुवादी । द्युम्नमन्नं चोत्पादयेतिशेषः । नोस्माकं सहोबलंच पृत्सु संग्रामेषु धाः धेहि ॥ ८ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ३१