मण्डलवर्गीकरणम्

मण्डलम् ९, सूक्तम् ८, ऋक् ९

संहिता

नृ॒चक्ष॑सं त्वा व॒यमिन्द्र॑पीतं स्व॒र्विद॑म् ।
भ॒क्षी॒महि॑ प्र॒जामिष॑म् ॥

पदपाठः

नृ॒ऽचक्ष॑सम् । त्वा॒ । व॒यम् । इन्द्र॑ऽपीतम् । स्वः॒ऽविद॑म् ।
भ॒क्षी॒महि॑ । प्र॒ऽजाम् । इष॑म् ॥

सायणभाष्यम्

हे सोम नृचक्षसं नृणां द्रष्टारं स्वर्विदं सर्वज्ञं इन्द्रपीतं इद्रेण पीतं त्वा त्वां पिबन्तोवयं काश्यपासिताः काश्यपादेवलावा प्रजां पुत्रादिकामिषमन्नंच भक्षीमहि भजेमहि ॥ ९ ॥ परिप्रियेति नवर्चं नवमं सूक्तं ऋष्याद्याः पूर्ववत् । परिप्रियेत्यनुक्रान्तम् । उक्तोविनियोगः ।

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ३१