मण्डलवर्गीकरणम्

मण्डलम् ९, सूक्तम् ९, ऋक् २

संहिता

प्रप्र॒ क्षया॑य॒ पन्य॑से॒ जना॑य॒ जुष्टो॑ अ॒द्रुहे॑ ।
वी॒त्य॑र्ष॒ चनि॑ष्ठया ॥

पदपाठः

प्रऽप्र॑ । क्षया॑य । पन्य॑से । जना॑य । जुष्टः॑ । अ॒द्रुहे॑ ।
वी॒ती । अ॒र्ष॒ । चनि॑ष्ठया ॥

सायणभाष्यम्

हे सोम प्रप्र अत्यन्तं क्षयाय तव निवासभूताय अद्रुहे अद्रोग्ध्रेच पन्यसे स्प्तोत्रे जनाय मनुष्याय वीती वीत्यै भक्षणाय जुष्टः पर्याप्तस्त्वं चनिष्ठया अन्नवत्तमया धारया अर्ष यागं प्रतिगच्छ ॥ २ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ३२