मण्डलवर्गीकरणम्

मण्डलम् ९, सूक्तम् ९, ऋक् ३

संहिता

स सू॒नुर्मा॒तरा॒ शुचि॑र्जा॒तो जा॒ते अ॑रोचयत् ।
म॒हान्म॒ही ऋ॑ता॒वृधा॑ ॥

पदपाठः

सः । सू॒नुः । मा॒तरा॑ । शुचिः॑ । जा॒तः । जा॒ते इति॑ । अ॒रो॒च॒य॒त् ।
म॒हान् । म॒ही इति॑ । ऋ॒त॒ऽवृधा॑ ॥

सायणभाष्यम्

जातउत्पन्नः शुचिर्विशुद्धोमहान् हविरुत्तमः ससोमाख्याः सनुः पुत्रो मही महत्यौ ऋतावृधा यज्ञस्यवर्धयित्र्यौ जाते विश्वस्यजनयित्र्यौ मातरा आत्मनोमातरौ द्यावापृथिव्यावरोचयत् रोचयति दीपयति ॥ ३ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ३२