मण्डलवर्गीकरणम्

मण्डलम् ९, सूक्तम् ९, ऋक् ५

संहिता

ता अ॒भि सन्त॒मस्तृ॑तं म॒हे युवा॑न॒मा द॑धुः ।
इन्दु॑मिन्द्र॒ तव॑ व्र॒ते ॥

पदपाठः

ताः । अ॒भि । सन्त॑म् । अस्तृ॑तम् । म॒हे । युवा॑नम् । आ । द॒धुः॒ ।
इन्दु॑म् । इ॒न्द्र॒ । तव॑ । व्र॒ते ॥

सायणभाष्यम्

हे इन्द्र तव त्वदीये व्रते कर्मणि ता अंगुल्यः । पूर्वत्र धीतयइत्यंगुलीनामुपात्तत्वात्तच्छब्देनपरामर्शः । सन्तं विद्यमानं अस्तृतमहिंसितं युवानं नित्यतरुणं इन्दुं सोमं महे महते अभिषवादिलक्षणाय कर्मणे अभ्यादधुः ॥ ५ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ३२