मण्डलवर्गीकरणम्

मण्डलम् ९, सूक्तम् ९, ऋक् ७

संहिता

अवा॒ कल्पे॑षु नः पुम॒स्तमां॑सि सोम॒ योध्या॑ ।
तानि॑ पुनान जङ्घनः ॥

पदपाठः

अव॑ । कल्पे॑षु । नः॒ । पु॒मः॒ । तमां॑सि । सो॒म॒ । योध्या॑ ।
तानि॑ । पु॒ना॒न॒ । ज॒ङ्घ॒नः॒ ॥

सायणभाष्यम्

हे पुमः पुमन् सोमकल्पेषु कल्पनीयेषु अहःसु नोस्मानव रक्ष । अपिच पुनान हे पवमान सोम त्वं योध्या योधनीयानि तमांसि रक्षांसि यानि तानि जंघनः नाशय ॥ ७ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ३३