मण्डलवर्गीकरणम्

मण्डलम् ९, सूक्तम् ९, ऋक् ८

संहिता

नू नव्य॑से॒ नवी॑यसे सू॒क्ताय॑ साधया प॒थः ।
प्र॒त्न॒वद्रो॑चया॒ रुचः॑ ॥

पदपाठः

नु । नव्य॑से । नवी॑यसे । सु॒ऽउ॒क्ताय॑ । सा॒ध॒य॒ । प॒थः ।
प्र॒त्न॒ऽवत् । रो॒च॒य॒ । रुचः॑ ॥

सायणभाष्यम्

हे सोम नव्यसे नव्याय नूतनाय नवीयसे स्तुत्याय अस्माकं सूक्ताय पथोमार्गान् नुक्षिप्रं साधय अभिगच्छ । अपिच प्रत्नवत् यथा पूर्वं रुचः स्वदीप्तीरोचय प्रकाशय ॥ ८ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ३३