पव॑मान॒ महि॒ श्रवो॒ गामश्वं॑ रासि वी॒रव॑त् ।
सना॑ मे॒धां सना॒ स्व॑ः ॥
पव॑मान । महि॑ । श्रवः॑ । गाम् । अश्व॑म् । रा॒सि॒ । वी॒रऽव॑त् ।
सन॑ । मे॒धाम् । सन॑ । स्वः॑ ॥
हे पवमान सोम यस्त्वं वीरवत् पुत्रवत् महि महत् श्रवोन्नं गां चाश्वं च रासि अस्मभ्यं प्रयच्छसि । सत्वं मेधां सनोस्मभ्यं प्रयच्छ । अपिच स्वः यदस्मदभिलषितं तत्सर्वं सन देहि ॥ ९ ॥
प्रस्वानासइति नवर्चं दशमं सूक्तं ऋष्याद्याः पूर्ववत् प्रस्वानासइत्यनुक्रान्तम् । विनियोगउक्तः ।