मण्डलवर्गीकरणम्

मण्डलम् ९, सूक्तम् १०, ऋक् २

संहिता

हि॒न्वा॒नासो॒ रथा॑ इव दधन्वि॒रे गभ॑स्त्योः ।
भरा॑सः का॒रिणा॑मिव ॥

पदपाठः

हि॒न्वा॒नासः॑ । रथाः॑ऽइव । द॒ध॒न्वि॒रे । गभ॑स्त्योः ।
भरा॑सः । का॒रिणा॑म्ऽइव ॥

सायणभाष्यम्

सोमा रथाइव यथारथास्तथा हिन्वानासो हिन्वाना यागदेशंप्रति गच्छन्तोभरासोभराः कारिणामिव यथा भारवाहानां बाह्वोर्धीयन्ते तथा गभस्त्योः ऋत्विजां बाह्वोः । गभस्ती बाहूइति बाहुनामसुपाठात् । दधन्विरे धीयन्ते ॥ २ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ३४