मण्डलवर्गीकरणम्

मण्डलम् ९, सूक्तम् १०, ऋक् ३

संहिता

राजा॑नो॒ न प्रश॑स्तिभि॒ः सोमा॑सो॒ गोभि॑रञ्जते ।
य॒ज्ञो न स॒प्त धा॒तृभि॑ः ॥

पदपाठः

राजा॑नः । न । प्रश॑स्तिऽभिः । सोमा॑सः । गोभिः॑ । अ॒ञ्ज॒ते॒ ।
य॒ज्ञः । न । स॒प्त । धा॒तृऽभिः॑ ॥

सायणभाष्यम्

सोमासः सोमाः प्रशस्तिभिः प्रशस्ताभिः स्तुतिरूपाभिर्वाग्भिः राजानोन यथाराजानः सप्तधातृभिः सप्तहोत्राभिः यज्ञोन यथाच यज्ञस्तथा गोभिर्गोविकारैः पयोभिरंजते अंज्यन्ते संस्क्रियन्तइत्यर्थः ॥ ३ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ३४