मण्डलवर्गीकरणम्

मण्डलम् ९, सूक्तम् १०, ऋक् ४

संहिता

परि॑ सुवा॒नास॒ इन्द॑वो॒ मदा॑य ब॒र्हणा॑ गि॒रा ।
सु॒ता अ॑र्षन्ति॒ धार॑या ॥

पदपाठः

परि॑ । सु॒वा॒नासः॑ । इन्द॑वः । मदा॑य । ब॒र्हणा॑ । गि॒रा ।
सु॒ताः । अ॒र्ष॒न्ति॒ । धार॑या ॥

सायणभाष्यम्

सुवानासः सुवानाः अभिषूयमाणाः इन्दवः सोमाः बर्हणा महत्या गिरा स्तुतिरूपया वाचा सुताअभिषुताः सन्तोमदाय मदार्थं धारया पर्यर्षन्ति परितोगच्छन्ति ॥ ४ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ३४