मण्डलवर्गीकरणम्

मण्डलम् ९, सूक्तम् १०, ऋक् ५

संहिता

आ॒पा॒नासो॑ वि॒वस्व॑तो॒ जन॑न्त उ॒षसो॒ भग॑म् ।
सूरा॒ अण्वं॒ वि त॑न्वते ॥

पदपाठः

आ॒पा॒नासः॑ । वि॒वस्व॑तः । जन॑न्तः । उ॒षसः॑ । भग॑म् ।
सूराः॑ । अण्व॑म् । वि । त॒न्व॒ते॒ ॥

सायणभाष्यम्

विवस्वत इन्द्रस्य आपानासः आपानभूता उषसोभगं जनन्तो जनयन्तः सूराः सरन्तः सोमाः अण्वं वितन्वते अभिषववेलायामुपरवेषु शब्दं कुर्वन्ति ॥ ५ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ३४