मण्डलवर्गीकरणम्

मण्डलम् ९, सूक्तम् १०, ऋक् ७

संहिता

स॒मी॒ची॒नास॑ आसते॒ होता॑रः स॒प्तजा॑मयः ।
प॒दमेक॑स्य॒ पिप्र॑तः ॥

पदपाठः

स॒मी॒ची॒नासः॑ । आ॒स॒ते॒ । होता॑रः । स॒प्तऽजा॑मयः ।
प॒दम् । एक॑स्य । पिप्र॑तः ॥

सायणभाष्यम्

समीचीनासः समीचीनाः जामयो जामिसदृशाः एकस्य सोमस्य पदं स्थानं पिप्रतः पूरयन्तः सप्तहोतारः सप्तहोत्रकाः आसते यज्ञे उपविशन्ति ॥ ७ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ३५