मण्डलवर्गीकरणम्

मण्डलम् ९, सूक्तम् १०, ऋक् ८

संहिता

नाभा॒ नाभिं॑ न॒ आ द॑दे॒ चक्षु॑श्चि॒त्सूर्ये॒ सचा॑ ।
क॒वेरप॑त्य॒मा दु॑हे ॥

पदपाठः

नाभा॑ । नाभि॑म् । नः॒ । आ । द॒दे॒ । चक्षुः॑ । चि॒त् । सूर्ये॑ । सचा॑ ।
क॒वेः । अप॑त्यम् । आ । दु॒हे॒ ॥

सायणभाष्यम्

नाभिं यज्ञस्य नाभिभूतं सोमं नोस्माकं नाभा नाभौ अहमाददे पिबामीत्यर्थः । पीतसोमानां अस्माकं चक्षुश्चित् चक्षुरपि सूर्ये सचा संगतं भवति । किंच कवेः क्रान्तकर्मणः सोमस्य अपत्यं अंशुं आदुहे आपूरयामि ॥ ८ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ३५