मण्डलवर्गीकरणम्

मण्डलम् ९, सूक्तम् १०, ऋक् ९

संहिता

अ॒भि प्रि॒या दि॒वस्प॒दम॑ध्व॒र्युभि॒र्गुहा॑ हि॒तम् ।
सूरः॑ पश्यति॒ चक्ष॑सा ॥

पदपाठः

अ॒भि । प्रि॒या । दि॒वः । प॒दम् । अ॒ध्व॒र्युऽभिः॑ । गुहा॑ । हि॒तम् ।
सूरः॑ । प॒श्य॒ति॒ । चक्ष॑सा ॥

सायणभाष्यम्

सूरः सुवीर्यइन्द्रः चक्षसा चक्षुषा दिवोदीप्तस्यात्मनः प्रिया प्रियं पदं अध्वर्युभिः गुहा गुहायां हृदये हितं निहितं पीतं सोममभि पश्यति ॥ ९ ॥

उपास्माइति नवर्चं एकादशं सूक्तं ऋष्याद्याः पूर्ववत् । उपास्माइत्यनुक्रान्तम् । उक्तः सूक्तविनियोगः । अभिष्टवे घर्मदुघोवत्सोपवनीयमाने नमसेदुपेत्येषा । सूत्रितंच-नमसेदुपसीदतसंजानाना उपसीदन्नभिज्ञ्विति ।

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ३५