मण्डलवर्गीकरणम्

मण्डलम् ९, सूक्तम् ११, ऋक् १

संहिता

उपा॑स्मै गायता नर॒ः पव॑माना॒येन्द॑वे ।
अ॒भि दे॒वाँ इय॑क्षते ॥

पदपाठः

उप॑ । अ॒स्मै॒ । गा॒य॒त॒ । न॒रः॒ । पव॑मानाय । इन्द॑वे ।
अ॒भि । दे॒वान् । इय॑क्षते ॥

सायणभाष्यम्

हे नरोनेतारो यज्ञस्य देवानिन्द्रादीन् अभीयक्षते आभिमुख्येन यष्टुमिच्छति पवमानाय क्षरते अस्माअभिषूयमाणायेन्दवे सोमाय उपगायत उपगानं कुरुत ॥ १ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ३६