मण्डलवर्गीकरणम्

मण्डलम् ९, सूक्तम् ११, ऋक् ३

संहिता

स नः॑ पवस्व॒ शं गवे॒ शं जना॑य॒ शमर्व॑ते ।
शं रा॑ज॒न्नोष॑धीभ्यः ॥

पदपाठः

सः । नः॒ । प॒व॒स्व॒ । शम् । गवे॑ । शम् । जना॑य । शम् । अर्व॑ते ।
शम् । रा॒ज॒न् । ओष॑धीभ्यः ॥

सायणभाष्यम्

हे राजन् दीप्यमान सोम सःप्रसिद्धस्त्वं नोस्मकं गवे शं सुखं पवस्व क्षर । जनाय पुत्रादये च शं पवस्व । अर्वत्तेश्वायच शं पवस्व । ओषधी- भ्यश्च शं पवस्व ॥ ३ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ३६