मण्डलवर्गीकरणम्

मण्डलम् ९, सूक्तम् ११, ऋक् ६

संहिता

नम॒सेदुप॑ सीदत द॒ध्नेद॒भि श्री॑णीतन ।
इन्दु॒मिन्द्रे॑ दधातन ॥

पदपाठः

नम॑सा । इत् । उप॑ । सी॒द॒त॒ । द॒ध्ना । इत् । अ॒भि । श्री॒णी॒त॒न॒ ।
इन्दु॑म् । इन्द्रे॑ । द॒धा॒त॒न॒ ॥

सायणभाष्यम्

हे ऋत्विजो नमसेत् नमस्कारेणैव उपसीदत सोममुपगच्छत । दध्नेत् दध्नैव अभिश्रीणीतन अभिश्रीणीतच । इन्द्रे इन्दुं सोमं दधातन धत्तच ॥ ६ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ३७