मण्डलवर्गीकरणम्

मण्डलम् ९, सूक्तम् ११, ऋक् ८

संहिता

इन्द्रा॑य सोम॒ पात॑वे॒ मदा॑य॒ परि॑ षिच्यसे ।
म॒न॒श्चिन्मन॑स॒स्पति॑ः ॥

पदपाठः

इन्द्रा॑य । सो॒म॒ । पात॑वे । मदा॑य । परि॑ । सि॒च्य॒से॒ ।
म॒नः॒ऽचित् । मन॑सः । पतिः॑ ॥

सायणभाष्यम्

हे सोम मनश्चित् मनसोज्ञाता मननस्पतिः ईश्वरः त्वमिन्द्राय इन्द्रस्य पातवे पानाय मदायच परिषिच्यसे परितः पात्रेषु सिच्यसे ॥ ८ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ३७