मण्डलवर्गीकरणम्

मण्डलम् ९, सूक्तम् ११, ऋक् ९

संहिता

पव॑मान सु॒वीर्यं॑ र॒यिं सो॑म रिरीहि नः ।
इन्द॒विन्द्रे॑ण नो यु॒जा ॥

पदपाठः

पव॑मान । सु॒ऽवीर्य॑म् । र॒यिम् । सो॒म॒ । रि॒री॒हि॒ । नः॒ ।
इन्दो॒ इति॑ । इन्द्रे॑ण । नः॒ । यु॒जा ॥

सायणभाष्यम्

हे इन्दो क्लिद्यमान पवमान सोम त्वं सुवीर्यं शोभनवीर्योपेतं रयिं धनं नोस्माकं संबन्धिना इन्द्रेण युजा सहायेन नोस्मभ्यं रिरीहि देहि ॥ ९ ॥

सोमाअसृग्रमिति नवर्चं द्वादशं सूक्तं ऋष्याद्याः पूर्ववत् । सोमाअसृग्रमित्यनुक्रान्तम् । उक्तोविनियोगः ।

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ३७