मण्डलवर्गीकरणम्

मण्डलम् ९, सूक्तम् १२, ऋक् १

संहिता

सोमा॑ असृग्र॒मिन्द॑वः सु॒ता ऋ॒तस्य॒ साद॑ने ।
इन्द्रा॑य॒ मधु॑मत्तमाः ॥

पदपाठः

सोमाः॑ । अ॒सृ॒ग्र॒म् । इन्द॑वः । सु॒ताः । ऋ॒तस्य॑ । सद॑ने ।
इन्द्रा॑य । मधु॑मत्ऽतमाः ॥

सायणभाष्यम्

सुताः अभिषुताः महुमत्तमाः अतिशयेन मधुमन्तः इन्दवः सोमाः ऋतस्य यज्ञस्य सादने सदने इन्द्रायेन्द्रार्थं असृग्रं सृज्यन्ते ॥ १ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ३८