मण्डलवर्गीकरणम्

मण्डलम् ९, सूक्तम् १२, ऋक् ३

संहिता

म॒द॒च्युत्क्षे॑ति॒ साद॑ने॒ सिन्धो॑रू॒र्मा वि॑प॒श्चित् ।
सोमो॑ गौ॒री अधि॑ श्रि॒तः ॥

पदपाठः

म॒द॒ऽच्युत् । क्षे॒ति॒ । सद॑ने । सिन्धोः॑ । ऊ॒र्मा । वि॒पः॒ऽचित् ।
सोमः॑ । गौ॒री इति॑ । अधि॑ । श्रि॒तः ॥

सायणभाष्यम्

मदच्युत् मदकरस्य रसस्य च्यावयिता सोमः सादने सदने । संहितायां दीर्घश्छान्दसः स्थाने क्षेति निवसति । एतदेवविवृणोति-सिन्धोर्नद्याः ऊर्मा ऊर्मौ तरंगे वसतीवरीष्वित्यर्थः । विपश्चित् विद्वान् सोमोगौरीअधि गौर्यामधि । अधीति सप्तम्यर्थानुवादः । माध्यमिकायांवाचि । गौरी गांधर्वीति वाङ्गामसुपाठात् । श्रितोमिश्रयति ॥ ३ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ३८