मण्डलवर्गीकरणम्

मण्डलम् ९, सूक्तम् १२, ऋक् ४

संहिता

दि॒वो नाभा॑ विचक्ष॒णोऽव्यो॒ वारे॑ महीयते ।
सोमो॒ यः सु॒क्रतु॑ः क॒विः ॥

पदपाठः

दि॒वः । नाभा॑ । वि॒ऽच॒क्ष॒णः । अव्यः॑ । वारे॑ । म॒ही॒य॒ते॒ ।
सोमः॑ । यः । सु॒ऽक्रतुः॑ । क॒विः ॥

सायणभाष्यम्

यः सुक्ततुः सुप्रज्ञः कविः क्रान्तकर्मा विचक्षणोविद्रष्टा ससोमोदिवोन्तरिक्षस्य नाभा नाभा नाभिभूते अव्यः अवेः वारे वाले महीयते पूज्यते पूयमानः स्तूयतइत्यर्थः ॥ ४ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ३८