मण्डलवर्गीकरणम्

मण्डलम् ९, सूक्तम् १२, ऋक् ५

संहिता

यः सोमः॑ क॒लशे॒ष्वाँ अ॒न्तः प॒वित्र॒ आहि॑तः ।
तमिन्दु॒ः परि॑ षस्वजे ॥

पदपाठः

यः । सोमः॑ । क॒लशे॑षु । आ । अ॒न्तरिति॑ । प॒वित्रे॑ । आऽहि॑तः ।
तम् । इन्दुः॑ । परि॑ । स॒स्व॒जे॒ ॥

सायणभाष्यम्

यः सोमः कलशेषु कुंभेषु आस्ते यश्च पवित्रे पवित्रस्यान्तर्मध्ये आहितः निहितस्तं स्वांशभूतं सोममिन्दुः सोमोदेवः परिषस्वजे प्रविशति ॥ ५ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ३८