मण्डलवर्गीकरणम्

मण्डलम् ९, सूक्तम् १२, ऋक् ६

संहिता

प्र वाच॒मिन्दु॑रिष्यति समु॒द्रस्याधि॑ वि॒ष्टपि॑ ।
जिन्व॒न्कोशं॑ मधु॒श्चुत॑म् ॥

पदपाठः

प्र । वाच॑म् । इन्दुः॑ । इ॒ष्य॒ति॒ । स॒मु॒द्रस्य॑ । अधि॑ । वि॒ष्टपि॑ ।
जिन्व॑न् । कोश॑म् । म॒धु॒ऽश्चुत॑म् ॥

सायणभाष्यम्

इंदुः सोमः मधुश्चुतं मधुनश्चयावकं कोशं मेघम् । असुरः कोशइति मेघनामसुपाठात् । जिन्वन् प्रीणयन् समुद्रस्यान्तरिक्षस्याधि विष्टपि विष्टब्धे स्थाने वाचं प्रेष्यति प्रेरयति पवित्रे पूयमानः शब्दं करोतीत्यर्थः ॥ ६ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ३९