मण्डलवर्गीकरणम्

मण्डलम् ९, सूक्तम् १२, ऋक् ७

संहिता

नित्य॑स्तोत्रो॒ वन॒स्पति॑र्धी॒नाम॒न्तः स॑ब॒र्दुघः॑ ।
हि॒न्वा॒नो मानु॑षा यु॒गा ॥

पदपाठः

नित्य॑ऽस्तोत्रः । वन॒स्पतिः॑ । धी॒नाम् । अ॒न्तरिति॑ । स॒बः॒ऽदुघः॑ ।
हि॒न्वा॒नः । मानु॑षा । यु॒गा ॥

सायणभाष्यम्

नित्यस्तोत्रः सन्ततस्तोत्रः सबर्दुघः अमृतस्य दोग्धा वनस्पतिः वनानांपालयिता सोमो मानुषामानुषाणि युगा युगानि अहीनैकाहात्मकानि हिन्वानः प्रीणयन् धीनां कर्मणाम न्तर्मध्ये निवसतीत्यर्थः ॥ ७ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ३९