मण्डलवर्गीकरणम्

मण्डलम् ९, सूक्तम् १२, ऋक् ९

संहिता

आ प॑वमान धारय र॒यिं स॒हस्र॑वर्चसम् ।
अ॒स्मे इ॑न्दो स्वा॒भुव॑म् ॥

पदपाठः

आ । प॒व॒मा॒न॒ । धा॒र॒य॒ । र॒यिम् । स॒हस्र॑ऽवर्चसम् ।
अ॒स्मे इति॑ । इ॒न्दो॒ इति॑ । सु॒ऽआ॒भुव॑म् ॥

सायणभाष्यम्

हे पवमान इन्दो सोम त्वं सहस्रवर्चसं बहुदीप्तं स्वाभुवं शोभनभवनं रयिं धनं अस्मे अस्मासु आधारय प्रक्षिपेत्यर्थः ॥ ९ ॥

वेदार्थस्यप्रकाशेन तमोहार्दंनिवाप्यन् । पुमर्थांश्चतुरोदेयाद्विद्यातीर्थमहेश्वरः ॥ १ ॥

इतिश्रीमद्राजाधिराजपरमेश्वरवैदिकमार्गप्रवर्तकश्रीवीरबुक्कभूपालसाम्राज्यधुरंधरेण सायणाचार्येण विरचिते माधवीये वेदार्थप्रकाशे ऋक्संहिताभाष्ये षष्ठाष्टके सप्तमोध्यायः ॥ ७ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ३९